मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् ६

संहिता

तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत ।
उ॒तेदमु॑त्त॒माय्य॑म् ॥

पदपाठः

तन्तु॑म् । त॒न्वा॒नम् । उ॒त्ऽत॒मम् । अनु॑ । प्र॒ऽवतः॑ । आ॒श॒त॒ ।
उ॒त । इ॒दम् । उ॒त्त॒माय्य॑म् ॥

सायणभाष्यम्

तन्तुं यज्ञं तन्वानं उत्तमं उत्कृष्टं सोमं अन्वाशत । उतापिच इदं कर्म अनेन सोमेन उत्तमाय्यं उत्तमीकृतं अथवा तन्तुं तन्वानं सोमं प्रवतः अधःस्थि- ताः सर्वाअन्वाशत । उतेदमुत्तमाय्यं रजोद्युलोकइत्यर्थः सोप्यन्वश्नुते पृथिव्याचान्तरिक्षेण चोत्तमीकृतमुत्तमाय्यम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२