मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् ३

संहिता

आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् ।
कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥

पदपाठः

आ । प॒व॒मा॒न॒ । नः॒ । भ॒र॒ । अ॒र्यः । अदा॑शुषः । गय॑म् ।
कृ॒धि । प्र॒जाऽव॑तीः । इषः॑ ॥

सायणभाष्यम्

हे पवमान सोम त्वं नोस्मभ्यं अर्यः अरेः अदाशुषः अप्रयच्छतो गयं गृहं गृहोपलक्षितं धनं आभर आहर । तथास्मभ्यं प्रजावतीरिषश्च कृधि कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३