मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् ५

संहिता

सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् ।
सु॒वीरो॑ अभिशस्ति॒पाः ॥

पदपाठः

सोमः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा॑नः । इ॒न्द्रि॒यम् । रस॑म् ।
सु॒ऽवीरः॑ । अ॒भि॒श॒स्ति॒ऽपाः ॥

सायणभाष्यम्

सोमोअर्षति गच्छति । कीदृशः सः धर्णसिः धारकः जगतां तथा इन्द्रियं इन्द्रियवर्धकं रसं दधानोधारयन् सुवीरः सुवीर्यः अभिशस्तिपाः अभिरास्तेः पाता अभितोहिंसा ततोरक्षकइत्यर्थः । सोमपानं ब्नह्महत्यादिनिन्दामनुमार्ष्टीति प्रसिद्धं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३