मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् ६

संहिता

इन्द्रा॑य सोम पवसे दे॒वेभ्य॑ः सध॒माद्य॑ः ।
इन्दो॒ वाजं॑ सिषाससि ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । दे॒वेभ्यः॑ । स॒ध॒ऽमाद्यः॑ ।
इन्दो॒ इति॑ । वाज॑म् । सि॒सा॒स॒सि॒ ॥

सायणभाष्यम्

हे सोम सधमाद्यः सधमादोयज्ञः तदर्हस्त्वं इन्द्राय देवेभ्यश्चान्येभ्यः पवसे क्षरसे । हे तादृशेन्दो सोम अस्मभ्यं वाजमन्नं सिषाससि दातुमिच्छसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३