मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् १

संहिता

प्र सोमा॑सो अधन्विषु॒ः पव॑मानास॒ इन्द॑वः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥

पदपाठः

प्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः ।
श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥

सायणभाष्यम्

पसोमासइति सप्तर्चं चतुर्विंशं सूक्तं असितोदेवलोवाऋषिः गायत्रीछन्दः सोमोदेवता प्रसोमासइत्यनुक्रान्तम् । गतोविनियोगः । सोमासः सोमाः पवमानासः पूयमाना इन्दवोदीप्ताः सोमाः प्रधन्विषुः धन्वतिर्गतिकर्मा प्रगच्छन्ति । किंच श्रीणानां गोभिः श्रयमाणाः अप्सु वसतीवरीषु च मूंजत मृज्यन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४