मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् ३

संहिता

प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
नृभि॑र्य॒तो वि नी॑यसे ॥

पदपाठः

प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम॑ । इन्द्रा॑य । पात॑वे ।
नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ॥

सायणभाष्यम्

हे पवमानसोम इन्द्रायेन्द्रस्य पातवे पानाय प्रधन्वसि प्रगच्छसि आहवनीयंप्रति हविर्धानात् । तदेवाह-नृभिर्नेतृभिरृत्विग्भिर्यतो विनोतो विनीयसे हविर्धानात् । अथवा पवमान प्रधन्वसि पात्रं प्रति इन्द्रपानाय तदर्थं हविर्धानाद्विनीयसे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४