मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् ४

संहिता

त्वं सो॑म नृ॒माद॑न॒ः पव॑स्व चर्षणी॒सहे॑ ।
सस्नि॒र्यो अ॑नु॒माद्य॑ः ॥

पदपाठः

त्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ ।
सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥

सायणभाष्यम्

हे सोम त्वं नृमादनः नृणां मादयिता त्वं चर्षणीसहे चर्षणयोमनुष्याद्वेष्टारः तेषां समभिभवित्रे इन्द्राय पवस्व क्षर । यस्त्वं सस्निः शुद्धःअनुमाद्यः स्तुत्यः सपवस्वेति समन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४