मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् ६

संहिता

पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्य॑ः ।
शुचि॑ः पाव॒को अद्भु॑तः ॥

पदपाठः

पव॑स्व । वृ॒त्र॒ह॒न्ऽत॒म॒ । उ॒क्थेभिः॑ । अ॒नु॒ऽमाद्यः॑ ।
शुचिः॑ । पा॒व॒कः । अद्भु॑तः ॥

सायणभाष्यम्

हे वृत्रहन्तम शत्रूणां अतिशयेन हन्तरिन्द्र त्वं पवस्व क्षर । कीदृशस्त्वं उक्थेभिः शस्त्रैः अनुमाद्यः स्तुत्यः शुचिः शुद्धः पावकः अन्यस्यशोधकः अद्भुतो महान् एवं महानुभावः पवस्व ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४