मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् १

संहिता

पव॑स्व दक्ष॒साध॑नो दे॒वेभ्य॑ः पी॒तये॑ हरे ।
म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥

पदपाठः

पव॑स्व । द॒क्ष॒ऽसाध॑नः । दे॒वेभ्यः॑ । पी॒तये॑ । ह॒रे॒ ।
म॒रुत्ऽभ्यः॑ । वा॒यवे॑ । मदः॑ ॥

सायणभाष्यम्

हे हरे हरितवर्ण पापहर्तर्वा सोम दक्षसाधनः दक्षोबलं तस्यसाधको मदोमदकरश्च त्वं पवस्व क्षर देवेभ्यः इन्द्रादिभ्यः पीतये पानाय । तथा मरुद्भ्योवायवेच पीतये पवस्व ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५