मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् २

संहिता

पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
धर्म॑णा वा॒युमा वि॑श ॥

पदपाठः

पव॑मान । धि॒या । हि॒तः । अ॒भि । योनि॑म् । कनि॑क्रदत् ।
धर्म॑णा । वा॒युम् । आ । वि॒श॒ ॥

सायणभाष्यम्

हे पवमान सोम धिया कर्मणा अस्मद्व्यापारेण अंगुल्यावा हितोधृतःसन् कनिक्रदत् शब्दंकुर्वन् योनिं स्थानं ग्रहं वा अभिविशेतिशेषः । तदेवाह धर्मणा कर्मणा वायुं वायुसंबंधिनं पात्रमित्यर्थः । तदाविश प्रविश ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५