मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् ३

संहिता

सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

पदपाठः

सम् । दे॒वैः । शो॒भ॒ते॒ । वृषा॑ । क॒विः । योनौ॑ । अधि॑ । प्रि॒यः ।
वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥

सायणभाष्यम्

अयं सोमः संशोभते देवैः सह योनौ स्थाने स्वीये अधिष्ठितः वृषा कामानां वर्षकः कविः क्रान्तप्रज्ञः प्रियः प्रियभूतः सर्वेषाम् । यद्वा प्रीणयिता वृत्रहा वृत्रस्यहन्ता देववीतमः अतिशयेन देवान् कामयमानः एवं महानुभावः सोमः संशोभते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५