मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् ४

संहिता

विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
यत्रा॒मृता॑स॒ आस॑ते ॥

पदपाठः

विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः ।
यत्र॑ । अ॒मृता॑सः । आस॑ते ॥

सायणभाष्यम्

विश्वा सर्वाणि रूपाणि आविशन् पुनानः पूयमानोहर्यतः कमनीयः हर्यगतिकान्त्योः । ईदृशोयाति गच्छति यत्रामृतासः अमृतादेवा आसते विष्ठंति तं देशं याति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५