तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् ।
इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥
तम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् ।
इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥
तं सोमं गावोगंत्र्यः स्तुतयः अभ्यनूषत अस्तुवन् । कीदृशं तं सहस्रधारं बहुधारं अक्षितं अक्षिणं इन्दुं दीप्तं दिवोद्युलोकस्य आधर्तारं सर्वतोधारकं सोमाधारत्वात् द्युलोकवासिनां संस्थानस्य ॥ २ ॥