मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २६, ऋक् ३

संहिता

तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।
ध॒र्ण॒सिं भूरि॑धायसम् ॥

पदपाठः

तम् । वे॒धाम् । मे॒धया॑ । अ॒ह्य॒न् । पव॑मानम् । अधि॑ । द्यवि॑ ।
ध॒र्ण॒सिम् । भूरि॑ऽधायसम् ॥

सायणभाष्यम्

वेधां विधातारं पवमानं तं मेधया प्रज्ञया अह्यन् प्रहिन्वन्ति कं प्रति अधिद्यवि द्युलोकं प्रति । पुनः कीदृशं धर्णसिं सर्वस्यधारकं भूरिधायसं बहूनां कर्तारं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६