मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २६, ऋक् ४

संहिता

तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।
पतिं॑ वा॒चो अदा॑भ्यम् ॥

पदपाठः

तम् । अ॒ह्य॒न् । भु॒रिजोः॑ । धि॒या । स॒म्ऽवसा॑नम् । वि॒वस्व॑तः ।
पति॑म् । वा॒चः । अदा॑भ्यम् ॥

सायणभाष्यम्

तं सोमं विवस्वतः परिचरतः ऋत्विजोभुरिजोर्बाह्वोर्धिया अंगुल्या अह्यन् प्राहिन्वन् । कीदृशं तं संवसानं वसन्तं पात्रे । वाचः स्तुतेःपतिं स्वामिनं अदाभ्यं अदंभनीयम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६