मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २६, ऋक् ५

संहिता

तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
ह॒र्य॒तं भूरि॑चक्षसम् ॥

पदपाठः

तम् । सानौ॑ । अधि॑ । जा॒मयः॑ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
ह॒र्य॒तम् । भूरि॑ऽचक्षसम् ॥

सायणभाष्यम्

तं सोमं हरिं हरितवर्णं सानावधि समुच्छ्रितेदेशे अधीति सप्तम्यर्थानुवादी जामयोंगुलयः हिन्वंति प्रेरयन्ति अधिषुण्वंत्यद्रिभिर्ग्रावभिः । कीदृशं हर्यतं कमनीयं भूरिचक्षसं बहुद्रष्टारं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६