तं त्वा॑ हिन्वन्ति वे॒धस॒ः पव॑मान गिरा॒वृध॑म् ।
इन्द॒विन्द्रा॑य मत्स॒रम् ॥
तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः॑ । पव॑मान । गि॒रा॒ऽवृध॑म् ।
इन्दो॒ इति॑ । इन्द्रा॑य । म॒त्स॒रम् ॥
हे पवमानसोम उक्तगुणविशिष्टं तं त्ग्वा त्वां हिन्वन्ति प्रेरयन्ति कस्मै इन्द्राय के वेधसोविधातारऋत्विजः । कीदृशं त्वां गिरावृधं स्तुत्या वर्धमानं इंदुं दीप्तं सरूपं वा मत्सरं मदकरं ॥ ६ ॥
एषकविरिति षळृचं तृतीयं सूक्तं नृमेधनाम्नआंगिरसस्यार्षं गायत्रं सौम्यम् । एषकविर्नृमेधइत्यनुक्रान्तम् । उक्तोविनियोगः ।