मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् १

संहिता

ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥

पदपाठः

ए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ ।
पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

एषसोमः कविर्मेधावी अभिष्टुतः अभितः स्तुतः पवित्रेअधि दशापवित्रमतीत्य तोशते । यद्यपि तोशतिर्वधकमां तथापि हनने गतिसद्भावादत्र गतिमात्रेवर्तते गच्छतीत्यर्थः । अथवा पवित्रेअधि कृष्णाजिने तोशते हन्यते पीड्यतइत्यर्थः । किंकुर्वन् पुनानः पूयमानः स्रिधः शत्रूनपघ्नन् अपगमयन् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७