मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् २

संहिता

ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
प॒वित्रे॑ दक्ष॒साध॑नः ॥

पदपाठः

ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ ।
प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥

सायणभाष्यम्

एषसोमः स्वर्जित् स्वर्गस्य सर्वस्य वा जेता सोम इन्द्राय वायवेच पतित्रे परिषिच्यते । कीदृश एवदक्षसाधनः बलकारी ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७