मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् ३

संहिता

ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
सोमो॒ वने॑षु विश्व॒वित् ॥

पदपाठः

ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः ।
सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥

सायणभाष्यम्

एषसोमो नृभिः कर्मनेतृभिः ऋत्वि ग्भिर्विनीयते विविधं नीयते । एष कीदृशः दिवोद्युलोकस्य मूर्धा शिरोवत्प्रधानभूतः वृषा अभिमतवर्षकः सुतोभिषुतः । कुत्र नीयते वनेषु वननीयेषु पात्रेषु वनसंभूतद्रुमविकारेषुवा पात्रेषु । विश्ववित् सर्वज्ञएषइति समन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७