मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् ४

संहिता

ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
इन्दु॑ः सत्रा॒जिदस्तृ॑तः ॥

पदपाठः

ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः ।
इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥

सायणभाष्यम्

एषसोमः पवमानः पूयमानः अचिक्रदत् शब्दंकरोति । कथंभूतःसन् गव्युः अस्माकं गाइच्छन् हिरण्ययुः धनमिच्छन् इन्दुर्दीप्तःसन् सत्राजित् महतः शत्रोरसुरादेर्जेता अस्तृतः स्वयमन्यैरहिंस्यश्चसन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७