मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् ५

संहिता

ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
प॒वित्रे॑ मत्स॒रो मदः॑ ॥

पदपाठः

ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ ।
प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥

सायणभाष्यम्

एषपवमानः पूयमानः सोमः सूर्येण देवेन अधिद्यवि द्युलोकेन्तरिक्षे पवित्रे हासते परित्यज्यते मत्सरो मदकरः मदः सोमः यद्यप्यध्वर्युहस्ताद्द- शापवित्रे परित्यज्यते सोमः तथापि अन्तरिक्षे सूर्येण पवित्रेत्यज्यतइति भावना वीर्यवत्वाय । सत्स्वप्यन्यदेषेषु सोमस्रावणे सूर्यस्य कःप्रसं- गइति नवाच्यं सूर्यरश्मिभिरेव सोमस्याप्यायनात् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७