मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २७, ऋक् ६

संहिता

ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरि॑ः ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥

पदपाठः

ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ ।
पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥

सायणभाष्यम्

एषशुप्मी बलवान्सोमोन्तरिक्षे दशापवित्रे असिष्यदत् स्यन्दते । कीदृशएषः वृषा वर्षकोहरिर्हरितवर्णः पुनानः पयमानइन्दुर्दीप्तश्च इन्द्रमा इन्द्रंचाभिगच्छतीतिशेषः । आइतिचार्थे ॥ ६ ॥

एषवाजीति षळृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम् । एषवाजीप्रियमेधइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७