मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २८, ऋक् १

संहिता

ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पति॑ः ।
अव्यो॒ वारं॒ वि धा॑वति ॥

पदपाठः

ए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ ।
अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥

सायणभाष्यम्

एषसोमो वाजी गमनशीलो नृभिः हितः अध्वर्युभिः पात्रेनिहितः विश्ववित् सर्वज्ञः मनसः स्तोत्रस्य पतिः स्वामी । अथवा सोमस्यमनोभिमा- नित्वात् मनसः स्वामित्वम् । चन्द्रमा मनोभूत्वा हृदयं प्राविशदितिश्रुतेः । तादृशोसौ अव्योवारं अवेर्वालं दशापवित्रं विधावति विविधं गच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८