मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २८, ऋक् ४

संहिता

ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
अ॒भि द्रोणा॑नि धावति ॥

पदपाठः

ए॒षः । वृषा॑ । कनि॑क्रदत् । द॒शऽभिः॑ । जा॒मिऽभिः॑ । य॒तः ।
अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ॥

सायणभाष्यम्

एषसोमः वृषा वर्षिता कामानां कनिक्रदत् शब्दंकुर्वन् दशभिर्जामिभिरंगुलिभिः यतोधृतो द्रोणानि द्रुममयानि पात्राण्यभिधावति अभिगच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८