मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २८, ऋक् ५

संहिता

ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
विश्वा॒ धामा॑नि विश्व॒वित् ॥

पदपाठः

ए॒षः । सूर्य॑म् । अ॒रो॒च॒य॒त् । पव॑मानः । विऽच॑र्षणिः ।
विश्वा॑ । धामा॑नि । वि॒श्व॒ऽवित् ॥

सायणभाष्यम्

एषसोमः सूर्यमरोचयत् रोचयति स्वरसेन । पवमानः पूयमानो विचर्षणिः सर्वस्य द्रष्टा विश्ववित् सर्ववित् । नकेवलं सूर्यं किंतु विश्वा सर्वाणि धामानि तेजःस्थानानि रोचयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८