मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् १

संहिता

प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑ः सु॒तस्यौज॑सा ।
दे॒वाँ अनु॑ प्र॒भूष॑तः ॥

पदपाठः

प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा ।
दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥

सायणभाष्यम्

अस्य सोमस्य वृष्णोवर्षकस्य सुतस्याभिषुतस्य देवाननु प्रभूषतः प्रभवितुमिच्छतः ओजसा स्ववीर्येण धाराः प्राक्षरन् प्रकर्षेण क्षरन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९