मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् २

संहिता

सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्त॑ः का॒रवो॑ गि॒रा ।
ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥

पदपाठः

सप्ति॑म् । मृ॒ज॒न्ति॒ । वे॒धसः॑ । गृ॒णन्तः॑ । का॒रवः॑ । गि॒रा ।
ज्योतिः॑ । ज॒ज्ञा॒नम् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

सप्तिं अश्वस्थानीयं सर्पणस्वभावं वा सोमं मृजन्ति शोधयन्ति । के गृणन्तः स्तुवन्तः वेधसोविधातारः कारवः कर्मकर्तारः अध्वर्य्वादयो गिरा स्तुत्या साधनेन । कीदृशं सप्तिं ज्योतिर्दीप्यमानं सोमं जज्ञानं जायमानं प्रवृद्धमित्यर्थः । अथवा ज्योतिर्जायमानम् । अयंवैज्योतिर्यत्सोमइतिश्रुतेः । उक्थ्यं स्तुत्यं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९