मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् ३

संहिता

सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥

पदपाठः

सु॒ऽसहा॑ । सो॒म॒ । तानि॑ । ते॒ । पु॒ना॒नाय॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

हे सोम प्रभुवसो प्रभूतधन पुनानाय पूयमानस्य ते तव तानि तेजांसि सुषहा शोभनानि भावुकानि । यस्मादेवं तस्मात् समुद्रं समुद्रसदृशं द्रोणकलशं उक्थ्यं स्तुत्यं तं वर्ध वर्धय प रसेन ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९