मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् ४

संहिता

विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥

पदपाठः

विश्वा॑ । वसू॑नि । स॒म्ऽजय॑न् । पव॑स्व । सो॒म॒ । धार॑या ।
इ॒नु । द्वेषां॑सि । स॒ध्र्य॑क् ॥

सायणभाष्यम्

हे सोम विश्वा सर्वाणि वसूनि अस्मदर्थं संजयन् पवस्व क्षर । धारया द्वेषांसि द्वेष्याणि सर्वाणि सध्यक् सहैव इनु प्रेरय दूरदेशंप्रति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९