मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् ६

संहिता

एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥

पदपाठः

आ । इ॒न्दो॒ इति॑ । पार्थि॑वम् । र॒यिम् । दि॒व्यम् । प॒व॒स्व॒ । धार॑या ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्दो क्लिद्यमान सोम त्वं धारया आपवस्व स्वर्वतः क्षर । पार्थिवं दिव्यंच रयिं धनं द्युमन्तं दीप्तिमन्तं शुष्मं बलं चाभर आहरास्मभ्यं ॥ ६ ॥

प्रधाराइति षळृचं षष्ठं सूक्तं बिन्दुनाम्न आंगिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । प्रधाराबिन्दुरित्यनुक्रमणिका । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९