मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३०, ऋक् १

संहिता

प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
पु॒ना॒नो वाच॑मिष्यति ॥

पदपाठः

प्र । धाराः॑ । अ॒स्य॒ । शु॒ष्मिणः॑ । वृथा॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।
पु॒ना॒नः । वाच॑म् । इ॒ष्य॒ति॒ ॥

सायणभाष्यम्

शुष्मिणोबलवतोस्य सोमस्य धाराः पवित्रे दशापवित्रे वृथा अप्रयत्नेन प्राक्षरन् स्नवन्ति । तदानीं पुनानः पूयमानः सोमो वाचं स्तुतिं स्वीयं ध्वनिं वा इष्यति प्रेरयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०