मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३०, ऋक् २

संहिता

इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑न॒ः कनि॑क्रदत् ।
इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥

पदपाठः

इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । मृ॒ज्यमा॑नः । कनि॑क्रदत् ।
इय॑र्ति । व॒ग्नुम् । इ॒न्द्रि॒यम् ॥

सायणभाष्यम्

अयमिन्दुर्दीप्तः सोमोहियानः प्रेर्यमाणोत्र्याप्रियमाणः कैः सोतृभिरृत्विग्भिः पश्चाद्दशापवित्रे मृज्यमानः शोध्यमानः कनिक्रदत् शब्दं कुर्वन् इन्द्रियमिन्द्रस्य संबन्धिनं इन्द्रियमपि करं वग्नुं शब्दमियर्ति प्रेरयति ग्रहणसमये ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०