आ न॒ः शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् ।
पव॑स्व सोम॒ धार॑या ॥
आ । नः॒ । शुष्म॑म् । नृ॒ऽसह्य॑म् । वी॒रऽव॑न्तम् । पु॒रु॒ऽस्पृह॑म् ।
पव॑स्व । सो॒म॒ । धार॑या ॥
हे सोम त्वं धारया आपवस्व । किं शुष्मं बलम् । कीद्रुशं नृषासह्यं नृणामस्मद्विरोधिनामभिभाषुकं वीरवन्तं पुत्रोपेतं पुरुस्पृहं बहुभिः स्पृहणीयं नोस्माकं शुष्ममापवस्व एतस्यलाभाय पवस्वेत्यर्थः । रसखावेसति होमद्वारा तत्सिद्धे शुष्मं पवस्वेत्युपचर्यते ॥ ३ ॥