सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
चारुं॒ शर्धा॑य मत्स॒रम् ॥
सु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
चारु॑म् । शर्धा॑य । म॒त्स॒रम् ॥
हे ऋत्विजोयूयं मधुमत्तमं मधुररसोपेतं सोमं इन्द्राय वज्रिणे वज्रयुक्ताय सुनोत सुमुत । पुनःकीदृशं चारुं चरणीयं मत्सरं मदकरं रार्धायास्माकं बलाय इन्द्रस्य पानायच सोमं सुनुतेतिषूते यजमानः स्वीयान् ॥ ६ ॥ प्रसोमासइति षळृचं सप्तमं सूक्तं राहूगणस्य गोतमस्यार्षं सौम्यं गायत्रम् । प्रसोमासोगोतमइत्यनुक्रान्तम् । गतोविनियोगः ।