मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् १

संहिता

प्र सोमा॑सः स्वा॒ध्य१॒॑ः पव॑मानासो अक्रमुः ।
र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥

पदपाठः

प्र । सोमा॑सः । स्वा॒ध्यः॑ । पव॑मानासः । अ॒क्र॒मुः॒ ।
र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥

सायणभाष्यम्

प्राक्रमुः प्रायच्छन्ति कलशंप्रति । केसोमासः सोमाः । कीदृशाः स्वाध्यः सुध्यानाः सुकर्माणोवा पवमानासः पूयमानाः चेतनं प्रज्ञापनं रयिं धनं कृण्वन्ति कुर्वंत्यस्माकम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१