मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् २

संहिता

दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः ।
भवा॒ वाजा॑नां॒ पति॑ः ॥

पदपाठः

दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः ।
भव॑ । वाजा॑नाम् । पतिः॑ ॥

सायणभाष्यम्

हे इन्दो वाजानामन्नानांपतिः स्वामी त्वं दिवोद्युलोकस्य पृथिव्या भूलोकस्यअधि द्युम्नवर्धनो द्योतमानस्य हिरण्यादिलक्षणधनस्य वर्धयिता भव अस्माकं लोकद्वये यत् द्युम्नमस्ति तस्य वर्धयिता भवास्मभ्यमित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१