मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् ३

संहिता

तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ।
सोम॒ वर्ध॑न्ति ते॒ महः॑ ॥

पदपाठः

तुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।
सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥

सायणभाष्यम्

हे सोम तुभ्यं वाता वायवः अभिप्रियोभितर्पयितारोभवन्ति । तथा सिन्धवः स्यन्दमाना नद्यः तुभ्यं अर्षन्ति गच्छन्ति अभिषूयमाणस्य तवा- प्यायनायैवं कुर्वन्तीत्यर्थः । तउभये अमी ते तव महो महत्वं वर्धन्ति वर्धयन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१