मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् ५

संहिता

तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् ।
वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥

पदपाठः

तुभ्य॑म् । गावः॑ । घृ॒तम् । पयः॑ । बभ्रो॒ इति॑ । दु॒दु॒ह्रे । अक्षि॑तम् ।
वर्षि॑ष्ठे । अधि॑ । सान॑वि ॥

सायणभाष्यम्

हे बभ्रो बभ्रुवर्ण सोम तुभ्यं त्वदर्थं गावोघृतं पयश्च अक्षितं अक्षीणं दुदुह्रे वर्षिष्ठे प्रवृद्धे अधिसानवि समुच्छ्रिते प्रदेशे स्थिताय तुभ्यं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१