मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् ६

संहिता

स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् ।
इन्दो॑ सखि॒त्वमु॑श्मसि ॥

पदपाठः

सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् ।
इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥

सायणभाष्यम्

हे भुवनस्य भूतजातस्य पते स्वामिन् पालक सोम । सोमस्य जगदाप्यायकत्वं तत्स्वामित्वम् । हे इन्दो सोम वयं अनुष्ठातारः स्वायुधस्य ते तव सतः सखित्वमुश्मसि कामयामहे ॥ ६ ॥

प्रसोमासइति षळृचमष्टमं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यतेच-प्रसोमासःश्यावाश्वइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१