मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३२, ऋक् १

संहिता

प्र सोमा॑सो मद॒च्युत॒ः श्रव॑से नो म॒घोनः॑ ।
सु॒ता वि॒दथे॑ अक्रमुः ॥

पदपाठः

प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ ।
सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥

सायणभाष्यम्

सोमासःसोमा मदच्युतो मदस्राविणः सुताअभिषुताःसन्तो विदथे यज्ञे मघोनो हविष्मतो नोस्मान् श्रवसे अन्नाय कीर्तयेवा प्राक्रमुःप्रगच्छन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२