मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३२, ऋक् २

संहिता

आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥

पदपाठः

आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

आत् अपिच ई एनं हरिं हरितवर्णं सोमं त्रितस्य ऋषेषणोंगुलय अद्रिभिर्ग्रावभिः हिन्वन्ति प्रेरयन्ति । किमर्थं इन्दुं दीप्तं सोमं इन्द्राय इन्द्रस्य पीतये पानाय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२