मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३२, ऋक् ३

संहिता

आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम् ।
अत्यो॒ न गोभि॑रज्यते ॥

पदपाठः

आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।
अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥

सायणभाष्यम्

आत् अपिच ईमयं सोमो हंसो यथा गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वद्विश्वस्य सर्वस्य स्तोतृजनस्य मतिं स्तुतिं बुद्धिं वा अवीवशत् वशं नयति । सच सोमः अत्योन अश्वइव गोभिर्गव्यैरुदकैर्वा अज्यते सिच्यते स्निग्धीक्रियते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२