मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् १

संहिता

प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।
वना॑नि महि॒षा इ॑व ॥

पदपाठः

प्र । सोमा॑सः । वि॒पः॒ऽचितः॑ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः॑ ।
वना॑नि । म॒हि॒षाःऽइ॑व ॥

सायणभाष्यम्

विपश्चितोमेधाविनः सोमासः सोमाः प्रनयन्ति प्रगच्छन्ति पात्राणिप्रति । किमिव अपामूर्मयः न । तेयथा सन्ततमुद्भवन्ति तद्वत् । बाहुल्ये- अयं दृष्टान्तः । दर्शतो गमनेदृष्टान्तान्तरमभिधीयते-वनानि महिषाः प्रद्धा मृगाइव । अथवा स्वाश्रयात् प्रपतने प्रथमोदृष्टान्तः द्वितीयस्तु दशापवित्रादधः प्रवेशे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३