मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् ३

संहिता

सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥

पदपाठः

सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
सोमाः॑ । अ॒र्ष॒न्ति॒ । विष्ण॑वे ॥

सायणभाष्यम्

सुता अभिषुताः सोमाः इन्द्राय इन्द्रार्थं वायवेच वरुणायच मरुद्भ्यश्च विष्णवेच एषामर्थं अर्षन्ति गच्छन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३