मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् ४

संहिता

ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ ।
हरि॑रेति॒ कनि॑क्रदत् ॥

पदपाठः

ति॒स्रः । वाचः॑ । उत् । ई॒र॒ते॒ । गावः॑ । मि॒म॒न्ति॒ । धे॒नवः॑ ।
हरिः॑ । ए॒ति॒ । कनि॑क्रदत् ॥

सायणभाष्यम्

तिस्रॊवाचः ऋगादिभॆदॆन त्रिविधास्तुतिरुदीरतॆ प्रॊद्गमयन्ति ऋत्विजः । धॆनवः आशिरॆण प्रीणयित्र्यॊगावः मिमन्ति शब्दयन्ति दॊहार्थम् । हरिर्हरितवर्णश्च सॊमः कनिक्रदच्छब्दंकुर्वन्नॆति गच्छति कलशं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३