मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् ६

संहिता

रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिणः॑ ॥

पदपाठः

रा॒यः । स॒मु॒द्रान् । च॒तुरः॑ । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिणः॑ ॥

सायणभाष्यम्

रायॊ धनस्य संबंधिनः चतुरः समुद्रान् धनपूर्णानित्यर्थः तादृशान् समुद्रानस्मभ्यमर्थाय हॆ सॊम विश्वतः सर्वतः आपवस्व । तथा सहस्रिणः अपरिमितान्कामानापवस्व आयच्छ । चतुस्समुद्रस्थधनविशॆषप्राप्तॆः तन्मध्यगतभूमिस्वामित्वमन्तरॆणासंभवाच्चतुःसमुद्रमुदितभूमंडलस्वामित्व- मॆवाशास्तॆ यजमानः ॥ ६ ॥

प्रसुवानइति षळृचं दशमं सूक्तं ऋष्याद्याः पूर्ववत् । प्रसुवानइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३