मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् १

संहिता

प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
रु॒जद्दृ॒ळ्हा व्योज॑सा ॥

पदपाठः

प्र । सु॒वा॒नः । धार॑या । तना॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
रु॒जत् । दृ॒ळ्हा । वि । ओज॑सा ॥

सायणभाष्यम्

इंदुः सोमः सुवानः सूयमानः हिन्वानोध्वर्युणा प्रेर्यमाणो धारया तना पवित्रं प्रार्षति गच्छति । अथ प्रत्यक्षेणोच्यते दृह्ळा दृढान्यपि शत्रुपुराणि ओजसा बलेन विरुजत् विरुजति विश्लथयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४