मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् ३

संहिता

वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥

पदपाठः

वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः ।
दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥

सायणभाष्यम्

बृषाणं रससेक्तारं यतं नियतं सोमं वृषभीरसस्यवर्षकैरद्रिभिर्ग्रावभिः सुन्वन्ति शक्मना कर्मणा दुहंत्यध्वर्य्वादयः पयः सोमरसम् । सोमं पयोदुह- न्तीति द्विकर्मकोयम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४