मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् ४

संहिता

भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
सं रू॒पैर॑ज्यते॒ हरि॑ः ॥

पदपाठः

भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः ।
सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥

सायणभाष्यम्

त्रितस्य सूक्तद्रष्टुरृषेः सोयं मत्सरो मदकरः सोमो मर्ज्यो भुवत् शुद्धोभवति तस्य यागार्थं शेषपानार्थंच तथा इन्द्रायेन्द्रपानाय मर्ज्योभुवत् रूपै रूपकैश्च क्षीरादिभिर्हरिर्हरितवर्णः सोमः समज्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४